श्री शिव रामा स्तोत्रम


शिव शिव हरे राम सखे प्रभो त्रिविधतापनिवारं हे प्रभो।
अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥1॥

कमललोचन राम दयानिधि हर गुरो गजरक्षक गोपते।
शिवतनो भव शंकर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥2॥

सुजनरंजन मङ्गलमन्दिरं भजति ते पुरुषः परमं पदम्।
भवति तस्य सुखं परमद्भुतं शिव हरे विजयं कुरु मे वरम् ॥3॥

जय युधिवल्लभ भूपते जयर्जितपुण्यपयोनिधे।
जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥4॥

भवविमोचन माधव मापते सुकविमानसहंस शिवार्ते।
जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥5॥

अवनिमंडलमङगल मापते जलदसुन्दर राम रमापते।
निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥6॥

पतितपावन नाममयी लता तव यशो विमलं परिगीयते।
तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥7॥

अमरतापरदेव रामपते विजयतस्तव नामधनोपमा।
मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥8॥

हनुमतः प्रिय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो।
मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥य॥

अहर्हर्जनर्जनसुन्दरं पथति यः शिवरामकृतं स्तवम्।
विशति रामरामचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥10॥

प्रातरुत्थाय यो भक्त्या पथेकाग्रामंसः।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥॥

Continue reading “श्री शिव रामा स्तोत्रम”

Book Now

Skip to content