पुरुवाच
राज्य लक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः।
स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥1॥
इन्द्र उवाच
नमस्ये सर्वलोकानां जननीम्बधिसमभवां।
श्रियमुन्निन्द्रपद्माक्षिं विष्णुवक्षःस्थलस्थितं ॥2॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा सुधा त्वं लोकपावनि।
सन्ध्या रात्रिः प्रभुभौतिर्मेधा श्रद्धा सरस्वती ॥3॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने।
आत्मविद्या च देवी त्वं विमुक्तिफलदायिनी ॥4॥
आन्वीक्षिकी त्रयि वार्ता दण्डनीतिस्त्वमेव च।
सौम्या सौम्यार्जग्द्रुपैस्त्वयैतदादेवी पूरितं ॥5॥
का त्वन्या त्वामृते देवी सर्वयज्ञमयं वपुः।
अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥6॥
त्वया देवी परित्यक्तं सकलं भुवनत्रयं।
विनष्टप्रयम्भवत् त्वयेदानीं समेधितं ॥7॥
दाराः पुत्रस्तथागारं सुहृद्धन्याधनादिकं।
भवत्येतनमहाभागे नित्यं त्वद्विक्षणान् नृणां ॥8॥
शरीररोग्यमैश्वर्यमरिपक्षक्षायः सुखं।
देवी त्वद्दृष्टिदृष्टानां पुरुषानां न दुर्ल्लभं ॥य॥
त्वम्बा सर्वभूतानां देवदेवो हरिः पिता।
त्वयैत्द्विश्नुना चम्ब जगद्व्याप्तं चराचरं ॥10॥
मानं कोशं तथा कोष्ठं मा गृहं मा परिच्छदं।
मा शरीरं कलत्रञ्च त्यजेथाः सर्वपावनि ॥शी॥
मा पुत्रान्मासुहृद्वर्गन्मा पशून्मा विभूषणं।
त्यजेथा मम देवस्य विष्णोर्वक्षस्थलालये ॥12॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः।
त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥3॥
त्वयावलोकिताः सद्यः शीलाद्यैर्खिलैर्गुणैः।
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुण अपि ॥14॥
स शलाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिः स सु
रः स च विक्रान्तो यस्त्वया देवी विक्षितः ॥15॥सद्यो वै
गुण्यमायन्ति शीलादयाः सकला गुणाः।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥16॥
न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः।
प्रसीद देवी पद्माक्षी नास्मानस्त्यक्षिः कदाचन ॥17॥
॥ इत्यग्नेये महापुराणे श्रीस्तोत्रं नाम षटत्रिंशदधिकद्विशतमो ऽध्यायः॥